वांछित मन्त्र चुनें

व्या॑न॒ळिन्द्र॒: पृत॑ना॒: स्वोजा॒ आस्मै॑ यतन्ते स॒ख्याय॑ पू॒र्वीः । आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया॑ सुम॒त्या चो॒दया॑से ॥

अंग्रेज़ी लिप्यंतरण

vy ānaḻ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ | ā smā rathaṁ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse ||

पद पाठ

वि । आ॒न॒ट् । इन्द्रः॑ । पृत॑नाः । सु॒ऽओजाः॑ । आ । अ॒स्मै॒ । य॒त॒न्ते॒ । स॒ख्याय॑ । पू॒र्वीः । आ । स्म॒ । रथ॑म् । न । पृत॑नासु । ति॒ष्ठ॒ । यम् । भ॒द्रया॑ । सु॒ऽम॒त्या । चो॒दया॑से ॥ १०.२९.८

ऋग्वेद » मण्डल:10» सूक्त:29» मन्त्र:8 | अष्टक:7» अध्याय:7» वर्ग:23» मन्त्र:3 | मण्डल:10» अनुवाक:2» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्वोजाः-इन्द्रः) सुन्दर तेजवाला ऐश्वर्यवान् परमात्मा (पृतनाः-व्यानट्) मनुष्यों को-मनुष्यों के अन्तःकरणों में व्याप्त है (पूर्वीः-अस्य सख्याय आ यतन्ते) श्रेष्ठ प्रजाएँ-उपासक जन इस परमात्मा के मित्रभाव के लिये भली-भाँति चाहना करते हैं (पृतनासु रथं न स्म-आ तिष्ठ) मनुष्यों के स्वकीय रमणयोग्य आनन्द को तत्काल भली-भाँति स्थापित कर (यं भद्रया सुमत्या चोदयासे) जिस रमणयोग्य आनन्द को भजनीय स्तुति द्वारा-भजनीय स्तुति को लक्ष्य करके मनुष्यों के अन्दर तू प्रेरित करता है ॥८॥
भावार्थभाषाः - ओजस्वी तथा ऐश्वर्यवान् परमात्मा मनुष्यों के अन्तःकरणों में व्याप्त रहता है। उपासक जन मित्रभाव के लिए उसे अपनाना चाहते हैं। उनके अन्दर परमात्मा अपने आनन्दरस को स्तुतियों द्वारा प्रेरित किया करता है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (स्वोजाः-इन्द्र) शोभनतेजस्वी तथैश्वर्यवान् परमात्मा (पृतनाः-व्यानट्) मनुष्यान् “पृतनाः-मनुष्याः” [निघं० २।३] व्याप्नोति तदन्तःकरणेषु (पूर्वीः अस्य सख्याय-आयतन्ते) श्रेष्ठप्रजाः-उपासकजना अस्मै-अस्य खल्विन्द्रस्य परमात्मनः-व्यत्ययेन षष्ठीस्थाने चतुर्थी, सखिभावाय सहयोगाय समन्ताद् यतन्ते काङ्क्षन्ति अथ प्रत्यक्षदृष्ट्योच्यते (पृतनासु रथं न स्म-आतिष्ठ) मनुष्येषु स्वकीयरमणयोग्यमानन्दं सम्प्रति “नकारः सम्प्रत्यर्थे” आस्थापय ‘इत्यन्तर्गतणिजर्थः’ (यं भद्रया सुमत्या चोदयासे) यं रमणयोग्यमानन्दं भजनीयया स्तुत्या-भजनीयां स्तुतिं लक्ष्यीकृत्य मनुष्येषु प्रेरयसि ॥८॥